Section A
Q1. अधोलिखितेषु कमप्येकं विषयमधिकृत्य षट्शतशब्देषु (600 शब्देषु) निबन्धो लेख्यः - 100 संस्कृतिः कथं सार्थका?
(a) 'स्मार्ट' (सुव्यवस्थितानि) नगराणि 'अ-स्मार्ट' (अव्यवस्थिताः) नागरिकाश्च
(b) न्यायिकसक्रियता तत्समक्षं न्यायिक-अतिक्रमणं (overreach) च
(c) विद्यालयछात्रेषु अस्माकं दायं (heritage) प्रति समादरस्य पोषणम्
(d) 2. अधोलिखितं गद्यांशं सावधानतया पठित्वा तदुपरिष्टाद् दत्तानां प्रश्नानमुत्तरं स्पष्टतया संक्षेपतश्च साधुगिरा दीयताम्— 12×5 = 60 एवं कथ्यते यत् स्रियः आकाशस्य अर्थं धारयन्ति। एतत्संशोध्य इदं साधयितुं शक्यते यत् ताः अर्धादपि अधिकं धारयन्ति। तथापि वस्तुतः सर्वेषु देशेषु, इतिहासस्य सर्वेषु कालेषु सर्वासु संस्कृतिषु परम्परासु च प्रत्येकस्मिन् क्षेत्रे, धर्मे, जातौ, वर्णे, वंशे, सम्प्रदाये प्रजातौ वा, अस्माकं वैविध्यपूर्णे अतीते परिवर्तमाने च वर्तमाने, जीवनस्य प्रायः सर्वेषु क्षेत्रेषु पुरुषाणां तुलनायां स्त्रियः लाभरहिताः आसन् सन्ति च। भोजने, सेवाकर्मणि, शिक्षायां, स्वास्थ्यसंरक्षायां विकासभागितायां, नेतृत्वविषये स्वप्नपूर्तिविषये ताभिः सह भेदव्यवहारः अक्रियत क्रियते च। वस्तुतः ताः विश्वस्य बृहत्तमाः अल्पसंख्यकवर्गीयाः युगे युगे आसन् अधुनापि च सन्ति। स्रीन् प्रति पितृसत्तायाः व्यवहारः तादृशो नास्ति येन ताः स्वयमेव कर्तारः क्रियायाः प्रयोजनानि च सन्ति। तासु या दृष्टिः सा तादृशी नास्ति यथा ताः स्वयमेव पूर्णाः, स्वाभिमाने स्वायत्ततायां च यथा तासां पुरुषैः सह समकक्षता भाव्या, सामाजिकरीतिषु, विधौ, सांस्थानिकेषु क्रियाकलापेषु च ताः यथा समानसम्मानम् अधिकारांश्च प्राप्नुवन्ति । एतद्विपरीतं ताः पुरुषाणां साधनरूपा एव जाताः यासां कर्त्तव्यमस्ति सन्तानोत्पादनं, सेवाभावः, पुरुषाणां कामपूर्तिः परिवारस्य समृद्धेः संरक्षणं च। पुरुषाणां पुत्र्यः, पत्न्यः मातरश्च इत्येवं संलग्नकरूपैः एव तासां स्वीकार्यता अस्ति संस्कृतौ। अन्यथा ताः अनुपयोगिन्यः पतिताः वा सन्ति। एकाकिन्यः स्नियः अस्माद् साधनता-वृत्ताद् बहिस्तिष्ठन्ति । याः स्नियः संस्कृतिसम्मतां विवाहावस्थां प्राप्य अपि अविवाहिताः याश्च विधवाः, विवाहोच्छेदं प्राप्ताः (divorced) वियुक्ताः वा वर्तन्ते तासामत्र अन्तर्भावः। पुरुषस्य ‘संरक्षणस्य सुरक्षा’याश्च अभावः समाजेन निन्द्यते ततोऽधिकं तु तदा यदा काचित् नारी स्वेच्छ्या एतदस्वीकरोति। किन्तु यदा सा दुर्घटनायाः रुग्णतायाः वा कारणेन पतिना वियुज्यते तदापि ईदृशी एव प्रवृत्तिः समाजे दृश्यते । मनुष्यस्य क्रोधातिशयः तस्यै खियै आरक्षितः या पुरुषस्य सर्वव्यापिन्याः छायायाः बहिः निवसति। सर्वाधिकेषु विकसितेषु देशेषु खाद्यात्रस्य 60-80 प्रतिशतं स्त्रियः उत्पादयन्ति। विश्वस्य अर्धं भोजनं च ताभिरेव उत्पाद्यते। संस्कृतिपरम्परायाम् अधिकांशगृहेषु ताः एव खाद्यवस्तूनि प्रयच्छन्ति । तथापि भारते सामाजिक-सांस्कृतिक-मान्यताभिः परिवारेषु तासां भोजनम् एवं निर्धार्यते येन स्नियः'न केवलं न्यूनतममन्ते च खादन्ति अपितु कुटुम्बे खाद्यात्रस्य असुरक्षायाः स्थितौ ताः उपवासमेव कुर्वन्ति । कुटुम्बस्य अन्तःवर्तमानायाः असमानतायाः कारणात् तत्र समानवितरणस्थितौ सर्वेषां कृते पर्याप्ते भोजने विद्यमाने सत्यपि स्त्रियः पर्याप्ताद् पौष्टिकादाहाराद् वश्चिताः भवन्ति । एकाकिन्यः स्त्रियः खाद्याचविषये जीविकायाः विषये च पक्षपातान् सामाजिकबन्धनानि च अनुभवन्ति यद्यपि ताः स्वतन्त्ररूपेण विश्वे संघर्षरताः सन्ति । \overline2 M-ESC-CU-SKT/21