Section A
Q1. 100 शिशुषु कुपोषणसमस्या
(a) वैश्विकशान्त्यै समाह्नयाः
(b) मातृभाषा प्राथमिकी शिक्षा च c) भाटकितकुक्षेः सामाजिकी स्वीकृतिः
(d) अथोलिखितं गद्यांशं सावधानं पठित्वा तदनुसारम् अथःप्रदत्तानां प्रश्नानामुत्तराणि स्पष्टतया समासतश्च शुद्धगिरा दीयताम्— 2. 12×5 = 60 पुराकालिके भारते राजतंत्रस्य इयान् प्रभाव आसीद् यद्राजा राज्यस्यात्मा प्रोक्तः। प्राचीन-धार्मिकग्रन्थान् अनुसृत्य राजा प्रजाभ्य ईश्वरस्य प्रतिनिधिर्वर्तते येन प्रजाः तत्साहाय्येन आत्मनः कष्टाकुलजीवनात् विमुक्तिं लभेरन्। राज्ञा विहीनस्य समाजस्य जीवनं कष्टपूर्णं भवति। पुराकालिकैर्भारतीयैः विद्वद्भी राज्ञो राज्यस्य वोत्पत्तिविषये काले काले नैके विचाराः प्रस्तुताः। ते हि विविधेषु सिद्धान्तेषु निर्धारिताः। तद्यथा—दैवीयसिद्धान्तः, शक्तिसिद्धान्तः, सुरक्षासिद्धान्तः, सामाजिकसंविदासिद्धान्तः इत्यादयः। कौटिल्येन राज्यं मानवानां जीवनाय एका महत्त्वाधायिनी, अनिवार्या हितकारिणी च संस्था कल्पिता। तेन राज्ञः समुत्पत्तिः क्रमबद्धं नैव विवेचिता, परश्च तदीये ‘अर्थशास्त्रे’ स्पष्टम् उल्लिखितं यद् यथा लघुमत्स्या दीर्घाकारकैर्मत्स्यैः भक्ष्यन्ते तथैव पुरा काले बलवन्तो बलहीनान् न्यपीडयन्। ‘मात्स्य-न्याय’ नाम्ना अनेन अन्यायेन जनाः पीडिता आसन्—अपरेषु शब्देषु पशुराज्यं प्रावर्तत। प्रपीडिताभिः प्रजाभिः संभूय कश्चन सामर्थ्यसंयुतो जनः स्वीयो राजा नियुक्तः। ताभी राज्ञे कृष्युत्पादस्य षष्ठांशं, व्यापारिकायस्य च दशमांशं समर्पयितुं विनिर्णीतम्। प्रत्युत्तरे राजा प्रजानां हितं पुष्णातुं दायित्वम् उररीकृतवान्। राज्ञा प्रवर्तितान् नियमान् ये नैव स्क्चकुर्वन् ते तेन दण्डिता अभवन्। राजा इन्द्रइव प्रजानां रक्षकः, अथ च, यम इव कृपालुः कल्पितः। कौटिल्यानुसारेण राजाज्ञानां विरोधोऽथवा तदीयापमानः प्रतिबन्धितो वर्तते। यस्मिन् समाजे राज्ञा प्रजाभ्यो रक्षणं प्रदीयते तत्र जना निर्भयं गृहद्वाराणि समुद्घाट्य विचरन्ति। यदा राजा रक्षणपरस्तदा स्त्रिय एकाकिन्योऽपि आभूषणानि सन्धार्य मार्गे विचरितुं प्रभवन्ति । राज्ञा रक्षिते समाजे मानवतायाः साम्राज्यं राजते । ईदृशे राज्ये सर्वविधा समुचतिर्भवति। अपरैः पुराकालिकैर्ग्रन्थैः साकं कौटिल्यस्य ‘अर्थशास्त्रे’ऽपि एतत्सत्यं प्रतिपादितम्। पुरा राजपदम् अस्थिरं राजशक्तयश्च नियता आसन्। परन्तूत्तरवैदिकयुगे राज्यानाम् आकारो यथा यथा वृद्धिं गतस्तथा तथा राज्ञाम् अधिकारे चैश्वर्ये वृद्धिरधिगता। प्रजानां रक्षापेक्षया राज्ञो रक्षायै अधिकमवधानं प्रारभत। राजपदस्य प्रतिष्ठानुगुणं राज्ञो वैभवः, विलासः, प्रदर्शनं च व्यवर्धन्त। शुक्रनीतौ तथ्यमिदं विस्तरेण वर्णितम्। राज्ञो विषयेऽथ च राज्यस्य विषये किमस्ति पुराकालिकम् अवधारणम्?
(a) 'मात्स्य-न्यायः' कथमन्यायः प्रोच्यते?
(b) राज्ञः प्रजानाश्च पारस्परिकसम्बन्धानां क आधारो वर्तते?
(c) 'मानवतायाः साम्राज्यम्' इत्यस्य कोऽभिप्रायः?
(d) उत्तरवैदिकयुगे प्रजानां स्थितौ किं परिवर्तितम्?
(e) HXS-C-SNKT/29 2